|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.64. अध्यायः 064
Mahabharata - Adi Parva - Chapter Topics
उपरिचरराजोपाख्यानम्॥ 1 ॥ इन्द्रध्वजोत्सववृत्तान्तः॥ 2 ॥
गिरिकाया उत्पत्तिः। उपरिचरस्य तया विवाहश्च॥ 3 ॥
मृगयार्थं गतेनोपरिचरेण स्वपत्नीस्मरणात्स्कन्नस्य श्येनद्वरा प्रेषितस्य रेतसो यमुनाजले पतनम्॥ 4 ॥
ब्रह्मशापान्मत्स्यभावं प्राप्तयाऽद्रिकया तद्रेतःपानम्॥ 5 ॥
तदुदरे मिथुनोत्पत्तिः॥ 6 ॥
तत्र पुत्रस्य उपरिचरवसुना ग्रहणम्। कन्याया दाशगृहे स्थितिः॥ 7 ॥
नावं वाहयमानायां सत्यवतीनाम्न्यां दाशकन्यायां पराशराद्द्वैपायनस्योत्पत्तिः। तस्य व्यासनामप्राप्तिश्च॥ 8 ॥
पाठान्तरे पराशरसत्यवतीविवाहादि॥ 9 ॥
भीष्मादीनां संक्षेपतो जन्मवृत्तान्तकथनम्॥ 10 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-64-0x(301)(2591)
राजोपरिचरो नाम धर्मनित्यो महीपतिः।
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः॥ 1-64-1(2592)
स चेदिविषयं रम्यं वसुः पौरवनन्दनः।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः॥ 1-64-2(2593)
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे॥ 1-64-3(2594)
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्॥ 1-64-4(2595)
देवा ऊचुः। 1-64-5x(302)
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्॥ 1-64-5(2596)
इन्द्र उवाच। 1-64-6x(303)
`देवानहं पालयिता पालय त्वं हि मानुषान्।'
लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्॥ 1-64-6(2597)
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः।
ऊधः पृथिव्या यो देशस्तमावस नराधिप॥ 1-64-7(2598)
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्।
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः॥ 1-64-8(2599)
अर्थवानेष देशो हि धनरत्नादिभिर्युतः।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप॥ 1-64-9(2600)
धर्मशीला जनपदाः सुसंतोषाश्च साधवः।
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा॥ 1-64-10(2601)
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च॥ 1-64-11(2602)
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्॥ 1-64-12(2603)
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते॥ 1-64-13(2604)
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव॥ 1-64-14(2605)
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्॥ 1-64-15(2606)
लक्षणं चैतदेवेह भविता ते नराधिप।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्॥ 1-64-16(2607)
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्॥ 1-64-17(2608)
`एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्।
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्॥ 1-64-18(2609)
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः।
इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्॥' 1-64-19(2610)
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा।
प्रवेशं कारयामास सर्वोत्सववरं तदा॥ 1-64-20(2611)
`मार्गशीर्षे महाराज पूर्वपक्षे महामखम्।
ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः॥' 1-64-21(2612)
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः।
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः॥ 1-64-22(2613)
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः।
`माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्॥ 1-64-23(2614)
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये।
महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्॥ 1-64-24(2615)
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः।
पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा॥ 1-64-25(2616)
शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा'।
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः॥ 1-64-26(2617)
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः।
`माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह॥ 1-64-27(2618)
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः।
अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा॥ 1-64-28(2619)
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः॥ 1-64-29(2620)
रमन्ते नागराः सर्वे तथा जानपदैः सह।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः॥ 1-64-30(2621)
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्।
सान्तःपुरः सहामात्यः सर्वाभरणभूषितः॥ 1-64-31(2622)
महारजनवासांसि वसित्वा चेदिराट् तदा।
जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा॥ 1-64-32(2623)
एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः॥'
यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः॥' 1-64-33(2624)
एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम्।
`हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्॥ 1-64-34(2625)
आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः।'
वसुना राजमुख्येन समागम्याब्रवीद्वचः॥ 1-64-35(2626)
ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः।
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः॥ 1-64-36(2627)
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति।
तथा स्फीतो जनपदो मुदितश्च भविष्यति॥ 1-64-37(2628)
`निरीतिकानि सस्यानि भवन्ति बहुधा नृप।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन॥ 1-64-38(2629)
वैशम्पायन उवाच।' 1-64-39x(304)
एवं महात्मना तेन महेन्द्रेण नराधिप।
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः।
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम्॥ 1-64-39(2630)
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः।
भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च॥ 1-64-40(2631)
संपूजितो मघवता वसुश्चेदीश्वरो नृपः।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्॥ 1-64-41(2632)
इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः॥ 1-64-42(2633)
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्।
महारथो मागधानां विश्रुतो यो बृहद्रथः॥ 1-64-43(2634)
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्।
मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः॥ 1-64-44(2635)
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च॥ 1-64-45(2636)
वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्॥ 1-64-46(2637)
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्॥ 1-64-47(2638)
पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल॥ 1-64-48(2639)
गिरिं कोलाहलं तं तु पदा वसुरताडयत्।
निश्चक्राम ततस्तेन प्रहारविवरेण सा॥ 1-64-49(2640)
तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्॥ 1-64-50(2641)
`महिषी भविता कन्या पुमान्सेनापतिर्भवेत्।
शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः'॥ 1-64-51(2642)
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः॥ 1-64-52(2643)
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्॥ 1-64-53(2644)
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः।
तदहः पितरश्चैनपूचुर्जहि मृगानिति॥ 1-64-54(2645)
तं राजसत्तमं प्रीतास्तदा मतिमतां वरः।
स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः॥ 1-64-55(2646)
चकार मृगयां कामी गिरिकामेव संस्मरन्।
अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम्॥ 1-64-56(2647)
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः॥ 1-64-57(2648)
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्॥ 1-64-58(2649)
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम्।
वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम्॥ 1-64-59(2650)
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया॥ 1-64-60(2651)
पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम्।
अशोकस्तबकैश्छन्नं रमणीयमपश्यत॥ 1-64-61(2652)
अधस्यात्तस्य छायायां सुखासीनो नराधिपः।
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम्॥ 1-64-62(2653)
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्।
`भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत।'
तस्य रेतः प्रचस्कन्द चरतो गहने वने॥ 1-64-63(2654)
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत॥ 1-64-64(2655)
`अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः।
अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत्॥' 1-64-65(2656)
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः॥ 1-64-66(2657)
संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः॥ 1-64-67(2658)
शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्॥ 1-64-68(2659)
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय॥ 1-64-69(2660)
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै। 1-64-70(2661)
वैशम्पायन उवाच।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्॥ 1-64-70x(305)
जवं परममास्थाय प्रदुद्राव विहंगमः।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः॥ 1-64-71(2662)
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः॥ 1-64-72(2663)
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा॥ 1-64-73(2664)
मीनभावमनुप्राप्ता बभूव यमुनाचरी।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्॥ 1-64-74(2665)
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः॥ 1-64-75(2666)
मासे च दशमे प्राप्ते तदा भरतसत्तम॥
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ॥ 1-64-76(2667)
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति॥ 1-64-77(2668)
तयोः पुमांसं जग्राह राजोपरिचरस्तदा।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः॥ 1-64-78(2669)
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा॥ 1-64-79(2670)
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि।
ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः॥ 1-64-80(2671)
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः॥ 1-64-81(2672)
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति॥ 1-64-82(2673)
रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्॥ 1-64-83(2674)
आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्॥ 1-64-84(2675)
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः।
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम्॥ 1-64-85(2676)
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः॥ 1-64-86(2677)
संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः।
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि॥ 1-64-87(2678)
मत्स्यगन्धोवाच। 1-64-88x(306)
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया।
सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज॥ 1-64-88(2679)
पराशर उवाच। 1-64-89x(307)
शोभनं वासवि शुभे किं चिरायसि वाह्यताम्।
कलशं भविता भद्रे सहस्रार्धेन संमितम्॥ 1-64-89(2680)
अहं शेषो भिविष्यामि नीयतामचिरेण वै। 1-64-90(2681)
वैशम्पायन उवाच।
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले॥ 1-64-90x(308)
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा।
मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः॥ 1-64-91(2682)
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम्। 1-64-92(2683)
पराशर उवाच।
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः॥ 1-64-92x(309)
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु।
बर्हिषद इति ख्याताः पितरः सोमपास्तुते॥ 1-64-93(2684)
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता।
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्॥ 1-64-94(2685)
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती॥ 1-64-95(2686)
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्।
नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम्॥ 1-64-96(2687)
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्।
सा तेन व्यभिचारेण मनसा कामचारिणी॥ 1-64-97(2688)
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात्॥ 1-64-98(2689)
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन्।
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान्॥ 1-64-99(2690)
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी।
तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि॥ 1-64-100(2691)
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा।
तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात्॥ 1-64-101(2692)
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते।
यैरारभन्ते कर्माणि शरीरैरिह देवताः॥ 1-64-102(2693)
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः।
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः॥ 1-64-103(2694)
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे।
तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम्॥ 1-64-104(2695)
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता।
मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि॥ 1-64-105(2696)
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि॥ 1-64-106(2697)
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम्॥ 1-64-107(2698)
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम्।
एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि॥ 1-64-108(2699)
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम्।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि॥ 1-64-109(2700)
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा।
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा॥ 1-64-110(2701)
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा।
मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम्॥ 1-64-111(2702)
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम्॥ 1-64-112(2703)
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत॥ 1-64-113(2704)
वैशम्पायन उवाच। 1-64-114x(310)
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्॥ 1-64-114(2705)
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः॥ 1-64-115(2706)
येन देशः स सर्वस्तु तमोभूत इवाभवत्।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा॥ 1-64-116(2707)
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी। 1-64-117(2708)
सत्यवत्युवाच।
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्॥ 1-64-117x(311)
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम॥ 1-64-118(2709)
गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्॥ 1-64-119(2710)
वैशम्पायन उवाच। 1-64-119x(312)
एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति॥ 1-64-120(2711)
वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते॥ 1-64-121(2712)
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्।
सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः॥ 1-64-122(2713)
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा॥ 1-64-123(2714)
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि।
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि॥ 1-64-124(2715)
तस्या योजनगन्धेति ततो नामापरं स्मृतम्।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्॥ 1-64-125(2716)
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्॥ 1-64-126(2717)
स मातरमनुज्ञाप्य तपस्येव मनो दधे।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्॥ 1-64-127(2718)
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्।
न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः॥ 1-64-128(2719)
पादापसारिणं धर्मं स तु विद्वान्युगे युगे।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच॥ 1-64-129(2720)
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः॥ 1-64-130(2721)
वेदानध्यापयामास महाभारतपञ्चमान्।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्॥ 1-64-131(2722)
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः॥ 1-64a-1a [ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते। 1-64a-1b वीरासनमुपास्थाय योगी ध्यानपरोऽभवत्॥ 1-64a-2a श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे। 1-64a-2b तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा॥ 1-64a-3a दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः। 1-64a-3b स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत्॥ 1-64a-4a शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः। 1-64a-4b श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः॥ 1-64a-5a धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः। 1-64a-5b दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम्॥ 1-64a-6a स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः। 1-64a-6b धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते॥ 1-64a-7a तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते। 1-64a-7b अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते॥ 1-64a-8a तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत्। 1-64a-8b ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः॥ 1-64a-9a विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः। 1-64a-9b त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः॥ 1-64a-10a पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः। 1-64a-10b सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा॥ 1-64a-11a वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम्। 1-64a-11b अपस्मारकुले जातां पिङ्गलांकुष्ठिनीं व्रणीम्॥ 1-64a-12a न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम्। 1-64a-12b पिता पितामहो भ्राता माता मातुल एव च॥ 1-64a-13a उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः। 1-64a-13b एतैर्दत्तां निषेवेत नादत्तामाददीत च॥ 1-64a-14a इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः। 1-64a-14b अस्या नास्ति पिता भ्राता माता मातुल एव च॥ 1-64a-15a गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया। 1-64a-15b क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि॥ 1-64a-16a यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः। 1-64a-16b क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः॥ 1-64a-17x वैशम्पायन उवाच। 1-64a-17a एवं चिन्तयतो भावं महर्षेर्भावितात्मनः। 1-64a-17b ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा॥ 1-64a-18a तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान्। 1-64a-18b पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत॥ 1-64a-19x पितृगणा ऊचुः। 1-64a-19a अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम्। 1-64a-19b यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम्॥ 1-64a-20a पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत। 1-64a-20b महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम्॥ 1-64a-21a पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत्। 1-64a-21b एवं संभाषमाणे तु वसिष्ठे पितृभिः सह॥ 1-64a-22a ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः। 1-64a-22b विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः॥ 1-64a-23a अरुन्धती महाभागा अदृश्यन्त्या सहैव सा। 1-64a-23b विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा॥ 1-64a-24a वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम्। 1-64a-24b अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना॥ 1-64a-25a भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत्। 1-64a-25b आपूर्यमाणपक्षे तु वैशाखे सोमदैवते॥ 1-64a-26a शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते। 1-64a-26b विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह॥ 1-64a-27a यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः। 1-64a-27b स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च॥ 1-64a-28a अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः। 1-64a-28b जलपूर्णघटैश्चैव सर्वतः परिशोभितम्॥ 1-64a-29a तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा। 1-64a-29b सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि॥ 1-64a-30a कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम्। 1-64a-30b वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः॥ 1-64a-31a गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे। 1-64a-31b अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः॥ 1-64a-32a स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम्। 1-64a-32b वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च॥ 1-64a-33a उवाच वचनं काले कालज्ञः सर्वधर्मवित्। 1-64a-33b प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा॥ 1-64a-34a यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम्। 1-64a-34x वैशम्पायन उवाच। 1-64a-34b तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः॥ 1-64a-35a श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः। 1-64a-35b वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन्॥ 1-64a-36a मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः। 1-64a-36b पराशराय मुनये दातुमर्हसि धर्मतः॥ 1-64a-37x वसुरुवाच। 1-64a-37a सत्यं मम सुता सा हि दाशराजेन वर्धिता। 1-64a-37b अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम्॥ 1-64a-38x पितर ऊचुः। 1-64a-38a निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः। 1-64a-38b कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते॥ 1-64a-39a कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम्। 1-64a-39b इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः॥ 1-64a-40a इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः। 1-64a-40b दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते॥ 1-64a-41a दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते। 1-64a-41b तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते॥ 1-64a-42a सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै। 1-64a-42b इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा॥ 1-64a-43x वैशम्पायन उवाच। 1-64a-43a याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत। 1-64a-43b वसुं चापि समाहूय वसिष्ठो मुनिभिः सह॥ 1-64a-44a विवाहं कारयामास विधिदृष्टेन कर्मणा। 1-64a-44x वसुरुवाच। 1-64a-44b पराशर महाप्राज्ञ तव दास्याम्यहं सुताम्॥ 1-64a-45a प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। 1-64a-45x वैशम्पायन उवाच। 1-64a-45b वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः॥ 1-64a-46a कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत्। 1-64a-46b प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम्॥ 1-64a-47a त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम्। 1-64a-47b महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच॥ 1-64a-48a लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत्। 1-64a-48b पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा॥ 1-64a-49a हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति। 1-64a-49b एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः॥ 1-64a-50a पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। 1-64a-50b जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्॥ 1-64a-51a जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा। 1-64a-51b स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः॥ 1-64a-52a स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम्। 1-64a-52b गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः॥ 1-64a-53a ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा। 1-64a-53b अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना॥ 1-64a-54a स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत्। 1-64a-54b मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः॥ 1-64a-55a अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते। 1-64a-55x वैशम्पायन उवाच। 1-64a-55b व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा॥ 1-64a-56a मनुष्यभावात्सा योषित्पपात मुनिपादयोः। 1-64a-56b महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित्॥ 1-64a-57a मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः। 1-64a-57b दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ॥ 1-64a-58a धारणाद्दुःखसहनात्तयोर्माता गरीयसी। 1-64a-58b बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम्॥ 1-64a-59a जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे। 1-64a-59b मृगीणां पक्षिणां चैव अप्सराणां तथैव च॥ 1-64a-60a शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः। 1-64a-60b ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा॥ 1-64a-61a अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ। 1-64a-61b सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ॥ 1-64a-62a स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा। 1-64a-62b एवमेव च देवानामृषीमां चैव संभवः॥ 1-64a-63a लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा। 1-64a-63b वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा॥ 1-64a-64a धर्मनेता महर्षीणां मनुष्याणां त्वमेव च। 1-64a-64b तस्मात्पुत्र न दूष्येत वासवी योगचारिणी॥ 1-64a-65a मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि। 1-64a-65b प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः॥ 1-64a-66a तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन। 1-64a-66x वैशम्पायन उवाच। 1-64a-66b गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा॥ 1-64a-67a चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत्। 1-64a-67b पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि॥ 1-64a-68a व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत्। 1-64a-68b स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि॥ 1-64a-69x वासव्युवाच। 1-64a-69a पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम्। 1-64a-69b दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः॥ 1-64a-70a महता तपसा तात महायोगबलेन च। 1-64a-70b मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः॥ 1-64a-71a तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम्। 1-64a-71x वैशम्पायन उवाच। 1-64a-71b एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत्॥ 1-64a-72a त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः। 1-64a-72b एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे॥ 1-64a-73a स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्। 1-64a-73b स मातरमनुज्ञाप्य तपस्येव मनो दधे॥ 1-64a-74a ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति। 1-64a-74b पराशरोऽपि भगवान्पुत्रेण सहितो ययौ॥ 1-64a-75a गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः। 1-64a-75b जातकर्मादिसंस्कारं कारयामास धर्मतः॥ 1-64a-76a कृतोपनयनो व्यासो याज्ञवल्क्येन भारत। 1-64a-76b वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया॥ 1-64a-77a गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे। 1-64a-77b एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्॥ 1-64a-78a द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत्। 1-64a-78b पादापसारिणं धर्मं विद्वान्स तु युगे युगे॥ 1-64a-79a आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च। 1-64a-79b ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया॥ 1-64a-80a विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः। 1-64a-80b ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः॥ 1-64a-81a सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्। 1-64a-81b प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च॥ 1-64a-82a वेदानध्यापयामास महाभारतपञ्चमान्। 1-64a-82b संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता॥ 1-64a-83a ततः सत्यवती हृष्टा जगाम स्वं निवेशनम्। 1-64a-83b तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि॥ 1-64a-84a दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत्। 1-64a-84x दाशराज उवाच। 1-64a-84b त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता॥ 1-64a-85a अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता 1-64a-85x सत्यवत्युवाच। 1-64a-85b शक्ते- पुत्रो महाप्राज्ञः पराशर इति श्रुतः॥ 1-64a-86a नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम्। 1-64a-86b उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ॥ 1-64a-87a ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन्। 1-64a-87b एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि॥ 1-64a-88a दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च। 1-64a-88b एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम्। 1-64a-88c इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च॥ 1-64-132(2723)
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः।
वसुवीर्यात्समभवन्महावीर्यो महायशाः॥ 1-64-133(2724)
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः।
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया॥ 1-64-134(2725)
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्॥ 1-64-135(2726)
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे॥ 1-64-136(2727)
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः॥ 1-64-137(2728)
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि। 1-64-138(2729)
वैशम्पायन उवाच।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत॥ 1-64-138x(313)
विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्॥ 1-64-139(2730)
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः।
सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः॥ 1-64-140(2731)
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः॥ 1-64-141(2732)
अनादिनिधनो देवः स कर्ता जगतः प्रभुः।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्॥ 1-64-142(2733)
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम्।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम्॥ 1-64-143(2734)
अनन्तमचलं देवं हंसं नारायणं प्रभुम्।
धातारमजमव्यक्तं यमाहुः परमव्ययम्॥ 1-64-144(2735)
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः॥ 1-64-145(2736)
धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ॥ 1-64-146(2737)
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ॥ 1-64-147(2738)
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत।
सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत॥ 1-64-148(2739)
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः॥ 1-64-149(2740)
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः॥ 1-64-150(2741)
वैताने कर्मणि तते पावकात्समजायत।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्॥ 1-64-151(2742)
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्॥ 1-64-152(2743)
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्॥ 1-64-153(2744)
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ॥ 1-64-154(2745)
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः॥ 1-64-155(2746)
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि॥ 1-64-156(2747)
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः॥ 1-64-157(2748)
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः॥ 1-64-158(2749)
जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ॥ 1-64-159(2750)
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा॥ 1-64-160(2751)
ततो दुःशासनश्चैव दुःसहश्चापि भारत।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः॥ 1-64-161(2752)
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः॥ 1-64-162(2753)
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः॥ 1-64-163(2754)
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः॥ 1-64-164(2755)
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः॥ 1-64-165(2756)
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः॥ 1-64-166(2757)
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता।
यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया॥ 1-64-167(2758)
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे॥ 1-64-168(2759)
तेषामपरिमेयानां नामधेयानि सर्वशः।
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्॥ ॥ 1-64-169(2760)
इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः॥ 64 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-64-1 रञ्जकत्वाद्राजा। महीपतिः पृथ्वीपालकः॥ 1-64-2 वसुः उपरिचरः॥ 1-64-4 साक्षात्प्रत्यक्षभूय॥ 1-64-5 न संकीर्येत निर्नायकत्वात्॥ 1-64-8 पशव्यः पशुभ्यो हितः॥ 1-64-11 गाः बलीवर्दान्। वृषभान्कृशान्न धुरि युञ्जते प्रत्युत संधुक्षयन्ति पुष्टान्कुर्वन्ति। अन्ये तु गाः स्त्रीगवीः तासामप्यान्ध्रादिदुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः॥ 1-64-12 न त इति। आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः॥ 1-64-13 उपपत्स्यते उपस्थास्यते॥ 1-64-15 वैजयन्तीं विजयहेतुं। अविक्षतमेव धारयिष्यति पालयिष्यति नतु विक्षतम्॥ 1-64-16 लक्षणं चिह्नम्॥ 1-64-17 इष्टप्रदानं प्रीतिदायमुद्दिश्य यष्टिं ददौ॥ 1-64-20 शक्रस्य पूजार्थं तस्या यष्टेः प्रवेशं स्थापनम्॥ 1-64-23 पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः॥ 1-64-46 वासवाः वसुपुत्राः॥ 1-64-48 पुरोपवाहिनीं पुरसमीपे वहन्तीं॥ 1-64-50 नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते॥ 1-64-54 तदहस्तस्मिन् दिने॥ 1-64-63 वायुना कामोद्दीपकेन। धूम्रं मलिनं रतिकर्म तदर्थं। मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेन मनसाऽगात्। तया सह मानसं सुरतमकरोदित्यर्थः। प्रचस्कन्द पपात॥ 1-64-64 मिथ्या प्रसवशून्यत्वेनालीकप्रायम्॥ 1-64-68 अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा॥ 1-64-70 आर्तवमृतुकालीनं स्नानम्॥ 1-64-73 युध्यतोः सतोः॥ 1-64-76 मासे दशमे प्राप्ते बबन्धुरिति संबन्धः। उज्जह्नुः उद्धृतवन्तः॥ 1-64-77 काये देहे। मत्स्याः मत्स्ययोषायाः॥ 1-64-115 नीहारं धूमिकाम्॥ 1-64-119 स्थातुं जीवितुं नोत्सहे कन्यात्वदूषणादित्यर्थः॥ 1-64-128 द्वीपमेवाऽयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः द्वीपायन एव द्वैपायन इति नाम निर्वक्ति न्यस्त इति॥ 1-64-125 पादापसारिणं युगेयुगे पादशः 1-64-88 तमश्लोकपूर्वार्धात्परं `इति सत्यवती हृष्टा' इत्यादि `भारतस्य प्रकाशिताः' इत्यन्तसार्धश्लोकसप्तकस्थाने इमे कुण्डलिताः श्लोकाः केषुचित्कोशेषूपलभ्यन्ते। 1-64-133 वसुवीर्यात् वस्वंशात्॥ 1-64-136 शकुन्तिका मक्षिका॥ 1-64-140 कुन्तिभोजस्य कन्यायां कुन्त्याम्॥ 1-64-167 स्थूणो नाम्ना॥ चतुःषष्ठितमोऽध्यायः॥ 64 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|